वांछित मन्त्र चुनें

दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑नि॒न्द्रान्बा॑हु॒क्षद॒: शर॑वे॒ पत्य॑मानान् । घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥

अंग्रेज़ी लिप्यंतरण

darśan nv atra śṛtapām̐ anindrān bāhukṣadaḥ śarave patyamānān | ghṛṣuṁ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ ||

पद पाठ

दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् । घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊँ॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥ १०.२७.६

ऋग्वेद » मण्डल:10» सूक्त:27» मन्त्र:6 | अष्टक:7» अध्याय:7» वर्ग:16» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अत्र) इस बलप्रयोगप्रसङ्ग में (शरवे पत्यमानान्) हिंसक बाण फेंकने के हेतु-आक्रमणकारी (अनिन्द्रान्) मुझ इन्द्र परमात्मा के न माननेवाले-नास्तिक (शृतपान्) दूसरों के मांस रक्तादि पीने खानेवालों को (दर्शम्) मैं देखता हूँ-जानता हूँ। (वा) और (घृषुं सखायम्) उन नास्तिक दुष्टों के साथ संघर्ष करनेवाले सखा-आस्तिक जन को देखता हूँ-जानता हूँ। (ये निनिदुः)  जो मेरी निन्दा करते हैं, मेरी स्तुति नहीं करते हैं, कृतघ्नता का आचरण करते हैं, (एषु) इसके ऊपर (उ नु) अवश्य शीघ्र (पवयः-ववृत्युः) मेरे वज्र गिरते हैं ॥६॥
भावार्थभाषाः - नास्तिक आक्रमणकारी दूसरों का रक्त, मांस पीने खानेवाले जनों को परमात्मा देखता है-जानता है और उसका विरोध करनेवाले आस्तिक जन को भी जानता है, वह सर्वज्ञ परमात्मा दुष्टों पर प्रहार करता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अत्र) अस्मिन् बलप्रयोगप्रसङ्गे (शरवे पत्यमानान्) हिंसकशस्त्रक्षेपणहेतवे प्रयतमानान्-आक्रमणकारिणः (अनिन्द्रान्) इन्द्रं माममन्यमानान् नास्तिकान् (शृतपान्) अन्येषां पक्वानि परिपुष्टानि मांसरक्तादीनि ये पिबन्ति-भक्षयन्ति तान् “शृतं पाके” [अष्टा० ६।१।२७] (दर्शम्) पश्यामि (वा) अथ च (घृषुं सखायम्) तैर्नास्तिकैर्दुष्टैः सह संघर्षयितारं सखायमास्तिकं जनं चापि पश्यामि (ये निनिदुः) ये मां निन्दन्ति-न स्तुवन्ति-कृतघ्नतां कुर्वन्ति (एषु) एतेषु (उ नु) अवश्यं क्षिप्रम् (पवयः-ववृत्युः) मम वज्रा “पविः वज्रनाम” [निघ० २।२०] वर्त्तन्ते-प्रवर्त्तन्ते पतन्ति ॥६॥